वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: अरुणो वैतहव्यः छन्द: जगती स्वर: निषादः काण्ड:

मे꣣धाकारं꣢ वि꣣द꣡थ꣢स्य प्र꣣सा꣡ध꣢नम꣣ग्नि꣡ꣳ होता꣢꣯रं परि꣣भू꣡त꣢रं म꣣ति꣢म् । त्वा꣡मर्भ꣢꣯स्य ह꣣वि꣡षः꣢ समा꣣न꣢꣫मित् त्वां म꣣हो꣡ वृ꣢णते꣣ ना꣢न्यं त्वत् ॥९८४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

मेधाकारं विदथस्य प्रसाधनमग्निꣳ होतारं परिभूतरं मतिम् । त्वामर्भस्य हविषः समानमित् त्वां महो वृणते नान्यं त्वत् ॥९८४॥

मन्त्र उच्चारण
पद पाठ

मे꣣धाकार꣢म् । मे꣣धा । कार꣢म् । वि꣣द꣡थ꣢स्य । प्र꣣सा꣡ध꣢नम् । प्र꣣ । सा꣡ध꣢꣯नम् । अ꣣ग्नि꣢म् । हो꣡ता꣢꣯रम् । प꣣रिभू꣡त꣢रम् । प꣣रि । भू꣡त꣢꣯रम् । म꣣ति꣢म् । त्वाम् । अ꣡र्भ꣢꣯स्य । ह꣣वि꣡षः꣢ । स꣣मान꣢म् । स꣣म । आन꣢म् । इत् । त्वाम् । म꣣हः꣢ । वृ꣣णते । न꣢ । अ꣣न्य꣢म् । अ꣣न् । य꣢म् । त्वत् ॥९८४॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 984 | (कौथोम) 3 » 2 » 7 » 3 | (रानायाणीय) 6 » 3 » 1 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

इस प्रकार भौतिक अग्नि के वर्णन द्वारा परमात्मा की महिमा प्रकाशित करके अब अग्नि नाम से जगदीश्वर की स्तुति करते हैं।

पदार्थान्वयभाषाः -

(मेधाकारम्) धारणावती बुद्धि के प्रदाता, (विदथस्य) ब्रह्माण्ड-यज्ञ के वा मनुष्यों के जीवनयज्ञ के (प्रसाधनम्) सिद्ध करनेवाले, (होतारम्) सुख आदि के दाता, (परिभूतरम्) अतिशय रूप से विघ्नों को दूर करनेवाले, (मतिम्) सर्वज्ञ (त्वाम् अग्निम्) तुझ अग्रनायक को (समानम् इत्) समानरूप से (अर्भस्य हविषः) छोटे त्याग के लिए और (त्वाम्) तुझे ही (महः) महान् त्याग के लिए, लोग (वृणते) चुनते हैं, अर्थात् आदर्शरूप से अपने सम्मुख स्थापित करते हैं, (त्वत् अन्यम्) तुझसे भिन्न को (न) नहीं ॥३॥ यहाँ विशेषणों के साभिप्राय होने से परिकर अलङ्कार है। ‘तारम्’ ‘तरम्’ में छेकानुप्रास है ॥३॥

भावार्थभाषाः -

त्याग और परोपकार के लिए परमेश्वर को ही आदर्शरूप में सबको अपने सम्मुख रखना चाहिए और उसके पीछे चलकर स्वयं भी त्याग एवं परोपकार करना चाहिए ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

एवं भौतिकाग्निमुखेन परमात्मनो महिमानं प्रकाश्य सम्प्रत्यग्निनाम्ना जगदीश्वरं स्तौति।

पदार्थान्वयभाषाः -

(मेधाकारम्) मेधायाः धारणावत्याः बुद्धेः प्रदातारम्, (विदथस्य) ब्रह्माण्डयज्ञस्य जनानां जीवनयज्ञस्य वा (प्रसाधनम्) साधयितारम्, (होतारम्) सुखादीनां दातारम्, (परिभूतरम्) अतिशयेन विघ्नानां परिभवकर्तारम्, (मतिम्) सर्वज्ञम्। [मन्यते जानाति सर्वमिति मतिः।] (त्वाम् अग्निम्) त्वाम् अग्रनेतारं (समानम् इत्) तुल्यरूपेण (अर्भस्य हविषः) स्वल्पस्य त्यागस्य कृते, (त्वाम्) त्वामेव च (महः) महतः हविषः, महतः त्यागस्य कृते, जनाः (वृणते) वृण्वते, आदर्शरूपेण स्वस्य पुरतः स्थापयन्ति, (त्वत् अन्यम्) त्वद् भिन्नम् (न) नैव वृणते ॥३॥ अत्र विशेषणानां साभिप्रायत्वात् परिकरालङ्कारः। ‘तारम्’ ‘तरम्’ इति छेकानुप्रासः ॥३॥

भावार्थभाषाः -

त्यागस्य परोपकारस्य च कृते परमेश्वर एवादर्शरूपेण सर्वैः स्वसंमुखं स्थापनीयस्तमनुसृत्य च स्वयमपि त्यागः परोपकारश्च विधेयः ॥३॥

टिप्पणी: १. ऋ० १०।९१।८, ‘परि॒भूत॑मं’, ‘तमिदर्भे ह॒विष्या स॑मा॒नमित् तमिन्म॒हे’ इति पाठः।